सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः। ततक्षतुर्महात्मानौ रणकर्मविशारदौ। बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ
तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ। सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्। सासारयोरिवाकाशे नीलयोः कालमेघयोः
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः। शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च। उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ
तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः। स कम्पं जनयामास निर्घात इव दारुणः
तयोः स भ्राजते शब्दस्तथा समरमत्तयोः। सुघोरयोर्निष्टनतोर्गगने मेघयोरिव
सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ। प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ
ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि। असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे। बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः
स बभूव रणो घोरस्तयोर्बाणमयश्चयः। अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः। सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः। इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्। अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम्
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ। शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्। बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य। प्रियहितमुपपादयन् महात्मा समरमुपेत्य विभीषणोऽवतस्थे
thumb|एकोननवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोननवतितमः सर्गः ॥६-
युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली। शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
ततो विस्फारयामास महद् धनुरवस्थितः। उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः। राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन्
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः। एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेषमस्य बलं हतम्
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः