अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्। विजघान महावेगाल्लक्ष्मणो राक्षसोरसि
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा
स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्
स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ
युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्
ततः शरान् दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत
विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः
ततः संधाय सौमित्रिः शरानाशीविषोपमान्। मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान्
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः। मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः। ददर्शावस्थितं वीरमाजौ दशरथात्मजम्। सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे
युवां खलु महायुद्धे वज्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्। दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्
तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा। अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन्
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि
नैवं रणगताः शूराः प्रहरन्ति निशाचर। लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव
नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः। इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्। व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः। इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः। बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः
व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु। कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि। शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ