सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः
रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः। शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्। आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा। अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया। कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्। वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते
अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा। तस्कराचरितो मार्गो नैष वीरनिषेवितः
यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस। दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे
एवमुक्तो धनुर्भीमं परामृश्य महाबलः। ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः
तेन सृष्टा महावेगाः शराः सर्पविषोपमाः। सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः
शरैरतिमहावेगैर्वेगवान् रावणात्मजः। सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः
इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च। विनद्य सुमहानादमिदं वचनमब्रवीत्
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः। आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण। गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया
क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः। भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया
विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्। हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया
इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम्। हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस। अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस। कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम्
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्। विजघान महावेगाल्लक्ष्मणो राक्षसोरसि
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा
स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्
स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ
युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्
ततः शरान् दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत