एवमुक्तो महातेजा मनस्वी रावणात्मजः। अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्
इह त्वं जातसंवृद्धः साक्षात् भ्राता पितुर्मम। कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते। प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः। यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्। क्व च स्वजनसंवासः क्व च नीच पराश्रयः
गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा। निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः
यः स्वपक्षं परित्यज्य परपक्षं निषेवते। स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते
निरनुक्रोशता चेयं यादृशी ते निशाचर। स्वजनेन त्वया शक्यं पौरुषं रावणानुज
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः। अजानन्निव मच्छीलं किं राक्षस विकत्थसे
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्। कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्। गुणो यः प्रथमो नॄणां तन्मे शीलमराक्षसम्
न रमे दारुणेनाहं न चाधर्मेण वै रमे। भ्रात्रा विषमशीलोऽपि कथं भ्राता निरस्यते
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्। त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा
परस्वहरणे युक्तं परदाराभिमर्शकम्। त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा
परस्वानां च हरणं परदाराभिमर्शनम्। सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः। अभिमानश्च रोषश्च वैरित्वं प्रतिकूलता
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः। गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव। नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता
अतिमानश्च बालश्च दुर्विनीतश्च राक्षस। बद्धस्त्वं कालपाशेन ब्रूहि मां यद् यदिच्छसि
अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्तवान्। प्रवेष्टुं न त्वया शक्यं न्यग्रोधं राक्षसाधम
धर्षयित्वा च काकुत्स्थं न शक्यं जीवितुं त्वया। युध्यस्व नरदेवेन लक्ष्मणेन रणे सह। हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम्
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्। न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि
thumb|अष्टाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाशीतितमः सर्गः ॥६-
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः। अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः
महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्। धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान्
तं ददर्श महेष्वासो रथस्थः समलंकृतः। अलंकृतममित्रघ्नो रावणस्यात्मजो बली
हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्। उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्
मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे। अद्य वो मामका बाणा महाकार्मुकनिःसृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्