स सारथिमुवाचेदं याहि यत्रैष वानरः। क्षयमेव हि नः कुर्याद् राक्षसानामुपेक्षितः
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः। वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे
सोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्। अभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः। रोषेण महताविष्टो वाक्यं चेदमुवाच ह
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते। वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे। वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः
हनूमन्तं जिघांसन्तं समुद्यतशरासनम्। रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः
यः स वासवनिर्जेता रावणस्यात्मसम्भवः। स एष रथमास्थाय हनूमन्तं जिघांसति
तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः। जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन। ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम्
thumb|सप्ताशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्ताशीतितमः सर्गः ॥६-
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः। धनुष्पाणिं तमादाय त्वरमाणो जगाम सः
अविदूरं ततो गत्वा प्रविश्य तु महद् वनम्। अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः
नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्। तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्
इहोपहारं भूतानां बलवान् रावणात्मजः। उपहृत्य ततः पश्चात् संग्राममभिवर्तते
अदृश्यः सर्वभूतानां ततो भवति राक्षसः। निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः
तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्। विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम्
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः। बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः
स रथेनाग्निवर्णेन बलवान् रावणात्मजः। इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत
तमुवाच महातेजाः पौलस्त्यमपराजितम्। समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे
एवमुक्तो महातेजा मनस्वी रावणात्मजः। अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्
इह त्वं जातसंवृद्धः साक्षात् भ्राता पितुर्मम। कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते। प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः। यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्। क्व च स्वजनसंवासः क्व च नीच पराश्रयः
गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा। निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः
यः स्वपक्षं परित्यज्य परपक्षं निषेवते। स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते
निरनुक्रोशता चेयं यादृशी ते निशाचर। स्वजनेन त्वया शक्यं पौरुषं रावणानुज
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः। अजानन्निव मच्छीलं किं राक्षस विकत्थसे
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्। कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्। गुणो यः प्रथमो नॄणां तन्मे शीलमराक्षसम्