स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः। राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम्
स सम्प्राप्य धनुष्पाणिर्मायायोगमरिंदमः। तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः
विभीषणेन सहितो राजपुत्रः प्रतापवान्। अङ्गदेन च वीरेण तथानिलसुतेन च
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं गहनं महारथैश्च। प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश
thumb|षडशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षडशीतितमः सर्गः ॥६-
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः। परेषामहितं वाक्यमर्थसाधकमब्रवीत्
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते। एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः
तस्यानीकस्य महतो भेदने यत लक्ष्मण। राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्। अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते
जहि वीर दुरात्मानं मायापरमधार्मिकम्। रावणिं क्रूरकर्माणं सर्वलोकभयावहम्
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः। ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति
ऋक्षाः शाखामृगाश्चैव द्रुमप्रवरयोधिनः। अभ्यधावन्त सहितास्तदनीकमवस्थितम्
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः। अभ्यवर्तन्त समरे कपिसैन्यजिघांसवः
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। शब्देन महता लङ्कां नादयन् वै समन्ततः
शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः। उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्
राक्षसा वानरेन्द्रेषु विकृताननबाहवः। निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः। अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान्
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः। रक्षसां युध्यमानानां महद्भयमजायत
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्। उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः। आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम्
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः। रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम्। रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्
तस्मिंस्तु काले हनुमानरुजत् स दुरासदम्। धरणीधरसंकाशो महावृक्षमरिंदमः
स राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन्। चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्। राक्षसानां सहस्राणि हनूमन्तमवाकिरन्
शितशूलधराः शूलैरसिभिश्चासिपाणयः। शक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः। शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः
घोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः। मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम्। तेषामपि च संक्रुद्धश्चकार कदनं महत्
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्। सूदमानमसंत्रस्तममित्रान् पवनात्मजम्