नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण। भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम्
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः। यत् तत् पुनरिदं वाक्यं बभाषेऽथ विभीषणः
यथाऽऽज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्। तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम्
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः। विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो। त्वय्यकारणसंतप्ते संतप्तहृदया वयम्
त्यज राजन्निमं शोकं मिथ्या संतापमागतम्। यदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्। प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः। साध्वयं यातु सौमित्रिर्बलेन महता वृतः
निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे। धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः
शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः। तेन वीरेण तपसा वरदानात् स्वयंभुवः। अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः
स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम्। यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः
निकुम्भिलामसम्प्राप्तमकृताग्निं च यो रिपुः। त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै। इत्येवं विहितो राजन् वधस्तस्यैष धीमतः
वधायेन्द्रजितो राम संदिशस्व महाबलम्। हते तस्मिन् हतं विद्धि रावणं ससुहृद्गणम्
विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत्। जानामि तस्य रौद्रस्य मायां सत्यपराक्रम
स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः। करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि
तस्यान्तरिक्षे चरतः सरथस्य महायशः। न गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसम्प्लवे
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः। लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत्
यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः। हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः। जहि तं राक्षससुतं मायाबलसमन्वितम्
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः। अभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः। जग्राह कार्मुकश्रेष्ठमन्यद् भीमपराक्रमः
संनद्धः कवची खड्गी सशरी वामचापभृत्। रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत्
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्। लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः। विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः
एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः। स रावणिवधाकांक्षी लक्ष्मणस्त्वरितं ययौ
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्। निकुम्भिलामभिययौ चैत्यं रावणिपालितम्
विभीषणेन सहितो राजपुत्रः प्रतापवान्। कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ
वानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः। विभीषणश्च सामात्यो लक्ष्मणं त्वरितं ययौ
महता हरिसैन्येन सवेगमभिसंवृतः। ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्