तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्। कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव
उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत। किमात्मानं महात्मानमात्मानं नावबुध्यसे
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः। सरथगजहयां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम्
thumb|चतुरशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुरशीतितमः सर्गः ॥६-
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले। निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः
नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः। नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः
सोऽभिगम्य महात्मानं राघवं शोकलालसम्। वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान्
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्। ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः। अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्। लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः
हता इन्द्रजिता सीता इति श्रुत्वैव राघवः। हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः। पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता। तदयुक्तमहं मन्ये सागरस्येव शोषणम्
अभिप्रायं तु जानामि रावणस्य दुरात्मनः। सीतां प्रति महाबाहो न च घातं करिष्यति
याच्यमानः सुबहुशो मया हितचिकीर्षुणा। वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः
नैव साम्ना न दानेन न भेदेन कुतो युधा। सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः। मायामयीं महाबाहो तां विद्धि जनकात्मजाम्
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति। हुतवानुपयातो हि देवैरपि सवासवैः
दुराधर्षो भवत्येष संग्रामे रावणात्मजः। तेन मोहयता नूनमेषा माया प्रयोजिता
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे। ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते
त्यजैनं नरशार्दूल मिथ्या संतापमागतम्। सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः। लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः
एष तं नरशार्दूलो रावणिं निशितैः शरैः। त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः। पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम्
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्। राक्षसस्य विनाशाय वज्रं वज्रधरो यथा
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्। त्वमतिसृज रिपोर्वधाय वज्रं दिविजरिपोर्मथने यथा महेन्द्रः
समाप्तकर्मा हि स राक्षसर्षभो भवत्यदृश्यः समरे सुरासुरैः। युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान्
thumb|पञ्चाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चाशीतितमः सर्गः ॥६-
तस्य तद् वचनं श्रुत्वा राघवः शोककर्शितः। नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा
ततो धैर्यमवष्टभ्य रामः परपुरंजयः। विभीषणमुपासीनमुवाच कपिसंनिधौ