आसिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः। प्रदहन्तमसंहार्यं सहसाग्निमिवोत्थितम्
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः। उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम्
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्। अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्। यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्। नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते
यद्यधर्मो भवेद् भूतो रावणो नरकं व्रजेत्। भवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात्
तस्य च व्यसनाभावाद् व्यसनं चागते त्वयि। धर्मो भवत्यधर्मश्च परस्परविरोधिनौ
धर्मेणोपलभेद् धर्ममधर्मं चाप्यधर्मतः। यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः
न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः। धर्मेणाचरतां तेषां तथा धर्मफलं भवेत्
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः। क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव। वधकर्महतोऽधर्मः स हतः कं वधिष्यति
अथवा विहितेनायं हन्यते हन्ति चापरम्। विधिः स लिप्यते तेन न स पापेन कर्मणा
अदृष्टप्रतिकारेण अव्यक्तेनासता सता। कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्षण
यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किंचन। त्वया यदीदृशं प्राप्तं तस्मात् तन्नोपपद्यते
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते। दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः
बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमैः। धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले
अथ चेत् सत्यवचनं धर्मः किल परंतप। अनृतं त्वय्यकरणे किं न बद्धस्त्वया विना
यदि धर्मो भवेद् भूत अधर्मो वा परंतप। न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः
अधर्मसंश्रितो धर्मो विनाशयति राघव। सर्वमेतद् यथाकामं काकुत्स्थ कुरुते नरः
मम चेदं मतं तात धर्मोऽयमिति राघव। धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा
अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः। क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः। विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः। पापमाचरते कर्तुं तदा दोषः प्रवर्तते
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्। यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया। राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्। अधनेनार्थकामेन नार्थः शक्यो विचिन्वता
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः। अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्। तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते। रक्षसापहृता भार्या प्राणौः प्रियतरा तव