नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्
अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः
गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन
तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च
पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्
तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः
अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः
मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने
तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे
निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्
पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर
इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि