तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्। विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता
पतितायां शिलायां तु व्यथिता रक्षसां चमूः। निपतन्त्या च शिलया राक्षसा मथिता भृशम्
तमभ्यधावन् शतशो नदन्तः काननौकसः। ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः। वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः। वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः
वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणक्षितौ। स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ। स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः
जघान कपिशार्दूलान् सुबहून् दृढविक्रमः। शूलैरशनिभिः खड्गैः पट्टिशैः शूलमुद्गरैः
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे। सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः
हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्। संनिवार्य परानीकमब्रवीत् तान् वनौकसः
हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम्। त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रियचिकीर्षवः
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा। इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्। इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्
शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत। ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः
स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम्। निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित्
यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा। हूयमानः प्रजज्वाल होमशोणितभुक् तदा
सार्चिःपिनद्धो ददृशे होमशोणिततर्पितः। संध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः
अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्। दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः
thumb|त्र्यशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्र्यशीतितमः सर्गः ॥६-
राघवश्चापि विपुलं तं राक्षसवनौकसाम्। श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्। श्रूयते च यथा भीमः सुमहानायुधस्वनः
तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः। क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः। आगच्छत् पश्चिमं द्वारं हनूमान् यत्र वानरः
अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा। वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्। नीलमेघनिभं भीमं संनिवार्य न्यवर्तत
स तेन सह सैन्येन संनिकर्षं महायशाः। शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्
समरे युध्यमानानामस्माकं प्रेक्षतां च सः। जघान रुदतीं सीतामिन्द्रजिद् रावणात्मजः
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम। तदहं भवतो वृत्तं विज्ञापयितुमागतः
तस्य तद् वचनं श्रुत्वा राघवः शोकमूर्च्छितः। निपपात तदा भूमौ छिन्नमूल इव द्रुमः
तं भूमौ देवसंकाशं पतितं दृश्य राघवम्। अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः