इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर। सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्
न हन्तव्याः स्त्रियश्चेति यद् ब्रवीषि प्लवंगम। पीडाकरममित्राणां यच्च कर्तव्यमेव तत्
तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम्। शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम्
यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी। सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना
तामिन्द्रजित् स्त्रियं हत्वा हनूमन्तमुवाच ह। मया रामस्य पश्येमां प्रियां शस्त्रनिषूदिताम्। एषा विशस्ता वैदेही निष्फलो वः परिश्रमः
ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम्। हृष्टः स रथमास्थाय ननाद च महास्वनम्
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः। व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः। तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः
thumb|द्व्यशीततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्व्यशीततमः सर्गः ॥६-
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्। वीक्ष्यमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम्
तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः। विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक्
कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः। त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे। शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्
एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता। शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः। परिवार्य हनूमन्तमन्वयुश्च महाहवे
स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः। हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्
स राक्षसानां कदनं चकार सुमहाकपिः। वृतो वानरसैन्येन कालान्तकयमोपमः
स तु शोकेन चाविष्टः कोपेन महता कपिः। हनूमान् रावणिरथे महतीं पातयच्छिलाम्
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा। विधेयाश्वसमायुक्तः विदूरमपवाहितः
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्। विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता
पतितायां शिलायां तु व्यथिता रक्षसां चमूः। निपतन्त्या च शिलया राक्षसा मथिता भृशम्
तमभ्यधावन् शतशो नदन्तः काननौकसः। ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः। वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः। वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः
वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणक्षितौ। स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ। स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः
जघान कपिशार्दूलान् सुबहून् दृढविक्रमः। शूलैरशनिभिः खड्गैः पट्टिशैः शूलमुद्गरैः
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे। सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः
हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्। संनिवार्य परानीकमब्रवीत् तान् वनौकसः