यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा। एवं विगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः
इत्येवमुक्त्वा वचनं महार्थं रघुप्रवीरः प्लवगर्षभैर्वृतः। वधाय रौद्रस्य नृशंसकर्मण- स्तदा महात्मा त्वरितं निरीक्षते
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः
thumb|एकाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः। स निवृत्याहवात् तस्मात् प्रविवेश पुरं ततः
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्। क्रोधताम्रेक्षणः शूरो निर्जगामाथ रावणिः
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः। इन्द्रजित् सुमहावीर्यः पौलस्त्यो देवकण्टकः
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। रणायाभ्युुद्यतौ वीरौ मायां प्रादुष्करोत् तदा
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा। बलेन महतावृत्य तस्या वधमरोचयत्
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः। हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ
तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः। उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः
हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः। प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम्
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे। एकवेणीधरां दीनामुपवासकृशाननाम्
परिक्लिष्टैकवसनाममृजां राघवप्रियाम्। रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्
तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च। बभूवाचिरदृष्टा हि तेन सा जनकात्मजा
अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनीम्। दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुतश्रिताम्
किं समर्थितमस्येति चिन्तयन् स महाकपिः। सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्
तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः। कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतामकर्षयत्
तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः। क्रोशन्तीं राम रामेति मायया योजितां रथे
गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः। दुःखजं वारि नेत्राभ्यामुत्सृजन् मारुतात्मजः
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्। अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोधिपात्मजम्
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः। ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी। नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम। अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली। किं तवैषापराद्धा हि यदेनां हंसि निर्दय
सीतां हत्वा तु न चिरं जीविष्यसि कथंचन। वधार्ह कर्मणा तेन मम हस्तगतो ह्यसि
ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः। इह जीवितमुत्सृज्य प्रेत्य तान् प्रति लप्स्यसे
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः। अभ्यधावत् सुसंक्रुद्धो राक्षसेन्द्रसुतं प्रति
आपतन्तं महावीर्यं तदनीकं वनौकसाम्। रक्षसां भीमकोपानामनीकेन न्यवारयत्
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्। हनूमन्तं हरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः। तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः