स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः। आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः। मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः। बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः। स बभूव दुराधर्षो रावणिः सुमहाबलः
सोऽभिनिर्याय नगरादिन्द्रजित् समितिंजयः। हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने। जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम्
अद्य निर्वानरामुर्वीं हत्वा रामं च लक्ष्मणम्। करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः। तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव। सृजन्ताविषुजालानि वीरौ वानरमध्यगौ
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्। संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्
स तु वैहायसरथो युधि तौ रामलक्ष्मणौ। अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ। धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ। तमस्त्रैः सूर्यसंकाशैर्नैव पस्पर्शतुः शरैः
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः। दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृताः
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः। शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते
घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम्। स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः
स रामं सूर्यसंकाशैः शरैर्दत्तवरैर्भृशम्। विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ। हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान्
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः। निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः
अतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ। तानिषून् पततो भल्लैरनेकैर्विचकर्ततुः
यतो हि ददृशाते तौ शरान् निपतिताञ्छितान्। ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम्
रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत्। विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः। बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ
नास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान्। न चास्य विदितं किंचित् सूर्यस्येवाभ्रसम्प्लवे
तेन विद्धाश्च हरयो निहताश्च गतासवः। बभूवुः शतशस्तत्र पतिता धरणीतले
लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत्। ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम्
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्। नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्। पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि
तस्यैव तु वधे यत्नं करिष्यामि महाभुज। आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान्
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्। राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः