तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्
पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः
देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुंगे समासीनमृचीकं संददर्श ह
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम्
दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्
अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः
गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन
तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च
पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्
तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः
अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः