जीमूतयोरिवाकाशे शब्दो ज्यातलयोरिव। धनुर्मुक्तः स्वनोऽन्योन्यं श्रूयते च रणाजिरे
देवदानवगन्धर्वाः किंनराश्च महोरगाः। अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम्
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्। कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद् रणे। रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः
बाणौघवितताः सर्वा दिशश्च प्रदिशस्तथा। संछन्ना वसुधा चैव समन्तान्न प्रकाशते
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद संयुगे। अष्टाभिरथ नाराचैः सूतं विव्याध राघवः
भित्त्वा रथं शरै रामो हत्वा अश्वानपातयत्। विरथो वसुधास्थः स मकराक्षो निशाचरः
तत्तिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना। त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्
दुरवापं महच्छूलं रुद्रदत्तं भयंकरम्। जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम्
यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः। विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः
स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे। तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्
बाणैश्चतुर्भिराकाशे शूलं चिच्छेद राघवः। स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः। व्यशीर्यत महोल्केव रामबाणार्दितो भुवि
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा। साधु साध्विति भूतानि व्याहरन्ति नभोगताः
तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः। मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्
स तं दृष्ट्वा पतन्तं तु प्रहस्य रघुनन्दनः। पावकास्त्रं ततो रामः संदधे तु शरासने
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे। संछिन्नहृदयं तत्र पपात च ममार च
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्। लङ्कामेव प्रधावन्त रामबाणभयार्दिताः
दशरथनृपसूनुबाणवेगै रजनिचरं निहतं खरात्मजं तम्। प्रददृशुरथ देवताः प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम्
thumb|अशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः। रोषेण महताविष्टो दन्तान् कटकटाय्य च
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्। आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ। अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे। किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः। यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित्
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः। आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः। लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा
सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः। छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः। बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः। हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्। आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्