शङ्खभेरीसहस्राणामाहतानां समन्ततः। क्ष्वेलितास्फोटितानां च तत्र शब्दो महानभूत्
प्रभ्रष्टोऽथ करात् तस्य प्रतोदः सारथेस्तदा। पपात सहसा दैवाद् ध्वजस्तस्य तु रक्षसः
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः। चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः। निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः। अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः। अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्मुहुस्ते
thumb|एकोनाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनाशीतितमः सर्गः ॥६-
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः। आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः
ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम्। निशाचरैः प्लवंगानां देवानां दानवैरिव
वृक्षशूलनिपातैश्च गदापरिघपातनैः। अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः। पट्टिशैर्भिन्दिपालैश्च बाणपातैः समन्ततः
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा। कदनं कपिसिंहानां चक्रुस्ते रजनीचराः
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः। सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः। नेदुस्ते सिंहवद् दृप्ता राक्षसा जितकाशिनः
विद्रवत्सु तदा तेषु वानरेषु समन्ततः। रामस्तान् वारयामास शरवर्षेण राक्षसान्
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः। कोपानलसमाविष्टो वचनं चेदमब्रवीत्
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं भविष्यति। त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः
यत् तदा दण्डकारण्ये पितरं हतवान् मम। तदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव। यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह। कांक्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः। ये त्वया निहताः शूराः सह तैश्च वसिष्यसि
बहुनात्र किमुक्तेन शृणु राम वचो मम। पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे
अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे। अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम्
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम्
कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते। न रणे शक्यते जेतुं विना युद्धेन वाग्बलात्
चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः। त्रिशिरा दूषणश्चापि दण्डके निहतो मया
स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः। भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः
राघवेणैवमुक्तस्तु मकराक्षो महाबलः। बाणौघानमुचत् तस्मै राघवाय रणाजिरे
ताञ्छराञ्छरवर्षेण रामश्चिच्छेद नैकधा। निपेतुर्भुवि विच्छिन्ना रुक्मपुङ्खाः सहस्रशः
तद् युद्धमभवत् तत्र समेत्यान्योन्यमोजसा। खरराक्षसपुत्रस्य सूनोर्दशरथस्य च