परिघोपमबाहुस्तु परिघं भास्करप्रभम्। बली बलवतस्तस्य पातयामास वक्षसि
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः। विकीर्यमाणः सहसा उल्काशतमिवाम्बरे
स तु तेन प्रहारेण न चचाल महाकपिः। परिघेण समाधूतो यथा भूमिचलेऽचलः
स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः। मुष्टिं संवर्तयामास बलेनातिमहाबलः
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्। अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः
तत्र पुस्फोट वर्मास्य प्रसुस्राव च शोणितम्। मुष्टिना तेन संजज्ञे मेघे विद्युदिवोत्थिता
स तु तेन प्रहारेण निकुम्भो विचचाल च। स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्
चुक्रुशुश्च तदा संख्ये भीमं लङ्कानिवासिनः। निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम्
स तथा ह्रियमाणोऽपि हनूमांस्तेन रक्षसा। आजघानानिलसुतो वज्रकल्पेन मुष्टिना
आत्मानं मोक्षयित्वाथ क्षितावभ्यवपद्यत। हनूमानुन्ममाथाशु निकुम्भं मारुतात्मजः
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च। उत्पत्य चास्य वेगेन पपातोरसि वेगवान्
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्। उत्पाटयामास शिरो भैरवं नदतो महत्
अथ निनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्। दशरथसुतराक्षसेन्द्रसून्वो- र्भृशतरमागतरोषयोः सुभीमम्
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवंगा दिशः सस्वनुश्च। चचालेव चोर्वी पपातेव सा द्यौ- र्बलं राक्षसानां भयं चाविवेश
thumb|अष्टसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टसप्ततितमः सर्गः ॥६-
निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम्। रावणः परमामर्षी प्रजज्वालानलो यथा
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः। खरपुत्रं विशालाक्षं मकराक्षमचोदयत्
गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः। राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः। बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम्
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्। निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीद् वचः। रथमानीयतां तूर्णं सैन्यं त्वानीयतां त्वरात्
तस्य तद् वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्
प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः। सूतं संचोदयामास शीघ्रं वै रथमावह
अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम्। यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः
अहं राक्षसराजेन रावणेन महात्मना। आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः। शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः
अद्य शूलनिपातैश्च वानराणां महाचमूम्। प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः। सर्वे नानायुधोपेता बलवन्तः समाहिताः
ते कामरूपिणः क्रूरा दंष्ट्रिणः पिङ्गलेक्षणाः। मातंगा इव नर्दन्तो ध्वस्तकेशा भयावहाः
परिवार्य महाकाया महाकायं खरात्मजम्। अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम्