तस्य वर्म च पुस्फोट संजज्ञे चापि शोणितम्। तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले
तस्य वेगेन तत्रासीत् तेजः प्रज्वलितं महत्। वज्रनिष्पेषसंजाता ज्वाला मेरोर्यथा गिरेः
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः। मुष्टिं संवर्तयामास वज्रकल्पं महाबलः
अर्चिःसहस्रविकचरविमण्डलवर्चसम्। स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान्
स तु तेन प्रहारेण विह्वलो भृशपीडितः। निपपात तदा कुम्भो गतार्चिरिव पावकः
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः। लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर्यदृच्छया
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना। बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः
तस्मिन् हते भीमपराक्रमेण प्लवंगमानामृषभेण युद्धे। मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश
thumb|सप्तसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥६-
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्। प्रदहन्निव कोपेन वानरेन्द्रमुदैक्षत
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्। आददे परिघं धीरो महेन्द्रशिखरोपमम्
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्। यमदण्डोपमं भीमं रक्षसां भयनाशनम्
तमाविध्य महातेजाः शक्रध्वजसमौजसम्। निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि। कुण्डलाभ्यां च चित्राभ्यां मालया च सचित्रया
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च। यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः। प्रजज्वाल सघोषश्च विधूम इव पावकः
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः। सतारागणनक्षत्रं सचन्द्रसमहाग्रहम्। निकुम्भपरिघाघूर्णं भ्रमतीव नभस्थलम्
दुरासदश्च संजज्ञे परिघाभरणप्रभः। क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्। हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली
परिघोपमबाहुस्तु परिघं भास्करप्रभम्। बली बलवतस्तस्य पातयामास वक्षसि
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः। विकीर्यमाणः सहसा उल्काशतमिवाम्बरे
स तु तेन प्रहारेण न चचाल महाकपिः। परिघेण समाधूतो यथा भूमिचलेऽचलः
स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः। मुष्टिं संवर्तयामास बलेनातिमहाबलः
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्। अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः
तत्र पुस्फोट वर्मास्य प्रसुस्राव च शोणितम्। मुष्टिना तेन संजज्ञे मेघे विद्युदिवोत्थिता
स तु तेन प्रहारेण निकुम्भो विचचाल च। स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्
चुक्रुशुश्च तदा संख्ये भीमं लङ्कानिवासिनः। निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम्
स तथा ह्रियमाणोऽपि हनूमांस्तेन रक्षसा। आजघानानिलसुतो वज्रकल्पेन मुष्टिना
आत्मानं मोक्षयित्वाथ क्षितावभ्यवपद्यत। हनूमानुन्ममाथाशु निकुम्भं मारुतात्मजः
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च। उत्पत्य चास्य वेगेन पपातोरसि वेगवान्