वरदानात् पितृव्यस्ते सहते देवदानवान्। कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान्
महाविमर्दं समरे मया सह तवाद्भुतम्। अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्। पतिता हरिवीराश्च त्वयैते भीमविक्रमाः
उपालम्भभयाच्चैव नासि वीर मया हतः। कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम्
तेन सुग्रीववाक्येन सावमानेन मानितः। अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा। गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम्। सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात्
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही। व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि। पातयामास वेगेन दर्शयन्नुदधेस्तलम्
ततः कुम्भनिपातेन जलराशिः समुत्थितः। विन्ध्यमन्दरसंकाशो विससर्प समन्ततः
ततः कुम्भः समुत्पत्य सुग्रीवमभिपात्य च। आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना
तस्य वर्म च पुस्फोट संजज्ञे चापि शोणितम्। तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले
तस्य वेगेन तत्रासीत् तेजः प्रज्वलितं महत्। वज्रनिष्पेषसंजाता ज्वाला मेरोर्यथा गिरेः
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः। मुष्टिं संवर्तयामास वज्रकल्पं महाबलः
अर्चिःसहस्रविकचरविमण्डलवर्चसम्। स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान्
स तु तेन प्रहारेण विह्वलो भृशपीडितः। निपपात तदा कुम्भो गतार्चिरिव पावकः
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः। लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर्यदृच्छया
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना। बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः
तस्मिन् हते भीमपराक्रमेण प्लवंगमानामृषभेण युद्धे। मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश
thumb|सप्तसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥६-
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्। प्रदहन्निव कोपेन वानरेन्द्रमुदैक्षत
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्। आददे परिघं धीरो महेन्द्रशिखरोपमम्
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्। यमदण्डोपमं भीमं रक्षसां भयनाशनम्
तमाविध्य महातेजाः शक्रध्वजसमौजसम्। निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि। कुण्डलाभ्यां च चित्राभ्यां मालया च सचित्रया
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च। यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः। प्रजज्वाल सघोषश्च विधूम इव पावकः
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः। सतारागणनक्षत्रं सचन्द्रसमहाग्रहम्। निकुम्भपरिघाघूर्णं भ्रमतीव नभस्थलम्
दुरासदश्च संजज्ञे परिघाभरणप्रभः। क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्। हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली