तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्। समुत्सृजत वेगेन मिषतां सर्वरक्षसाम्
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः। अङ्गदो विव्यथेऽभीक्ष्णं स पपात मुमोह च
अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे। दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन्
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे। व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्। अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम्
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः। रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्। आववार शरौघेण नगेनेव जलाशयम्
तस्य बाणपथं प्राप्य न शेकुरपि वीक्षितुम्। वानरेन्द्रा महात्मानो वेलामिव महोदधिः
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिभिरर्दितान्। अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः
अभिदुद्राव सुग्रीवः कुम्भकर्णात्मजं रणे। शैलसानुचरं नागं वेगवानिव केसरी
उत्पाट्य च महावृक्षानश्वकर्णादिकान् बहून्। अन्यांश्च विविधान् वृक्षांश्चिक्षेप स महाकपिः
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्। कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः। आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः। द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान्
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे। स विध्यमानः सहसा सहमानस्तु ताञ्छरान्
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम्। अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्। निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम्
संनतिश्च प्रभावश्च तव वा रावणस्य वा। प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपम
एकस्त्वमनुजातोऽसि पितरं बलवत्तरम्। त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम्
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः। विक्रमस्व महाबुद्धे कर्माणि मम पश्य च
वरदानात् पितृव्यस्ते सहते देवदानवान्। कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान्
महाविमर्दं समरे मया सह तवाद्भुतम्। अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्। पतिता हरिवीराश्च त्वयैते भीमविक्रमाः
उपालम्भभयाच्चैव नासि वीर मया हतः। कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम्
तेन सुग्रीववाक्येन सावमानेन मानितः। अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा। गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम्। सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात्
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही। व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि। पातयामास वेगेन दर्शयन्नुदधेस्तलम्
ततः कुम्भनिपातेन जलराशिः समुत्थितः। विन्ध्यमन्दरसंकाशो विससर्प समन्ततः