तं दृष्ट्वा पतितं भूमौ खड्गं मुसलसंनिभम्। मुष्टिं संवर्तयामास वज्रकल्पं महाबलः
स ललाटे महावीर्यमङ्गदं वानरर्षभम्। आजघान महातेजाः स मुहूर्तं चचाल ह
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्। प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे। अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्। आजघानोरसि क्रुद्धो जग्राह च बलाद् बली
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः। आजघान महातेजा वक्षसि द्विविदं ततः
स ततोऽभिहतस्तेन चचाल च महाबलः। उद्यतां च पुनस्तस्य जहार द्विविदो गदाम्
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत्। यूपाक्षं ताडयामास तलेनोरसि वीर्यवान्
तौ शोणिताक्षयूपाक्षौ प्लवंगाभ्यां तरस्विनौ। चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम्
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे। निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान्
यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुङ्गवः। पीडयामास बाहुभ्यां पपात स हतः क्षितौ
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा। जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम्। अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवंगमैः
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा। कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम्
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः। मुमोचाशीविषप्रख्याञ्छरान् देहविदारणान्
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्। विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा। तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्। निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः
मैन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे। अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम्
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः। बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः
संधाय चान्यं सुमुखं शरमाशीविषोपमम्। आजघान महातेजा वक्षसि द्विविदाग्रजम्
स तु तेन प्रहारेण मैन्दो वानरयूथपः। मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः
अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ। अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम्
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः। त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः। सोऽङ्गदं बहुभिर्बाणैः कुम्भो विव्याध वीर्यवान्
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः। अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह। स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान्। आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम्
भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्। तस्य सुस्राव रुधिरं पिहिते चास्य लोचने
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते। सालमासन्नमेकेन परिजग्राह पाणिना
सम्पीड्योरसि सस्कन्धं करेणाभिनिवेश्य च। किंचिदभ्यवनम्यैनमुन्ममाथ महारणे