तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः। विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च। तस्य तस्थतुरभ्याशे परस्परदिदृक्षया
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः। राक्षसा वानरान् रोषादसिबाणगदाधराः
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुंगवैः। संसक्तानां महद् युद्धमभवद् रोमहर्षणम्
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे। खड्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः
रथानश्वान् द्रुमाञ्छैलान् प्रतिचिक्षिपुराहवे। शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्। बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान्
उद्यम्य विपुलं खड्गं परमर्मविदारणम्। प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः। आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना। वालिपुत्रस्य घातेन स पपात क्षितावसिः
तं दृष्ट्वा पतितं भूमौ खड्गं मुसलसंनिभम्। मुष्टिं संवर्तयामास वज्रकल्पं महाबलः
स ललाटे महावीर्यमङ्गदं वानरर्षभम्। आजघान महातेजाः स मुहूर्तं चचाल ह
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्। प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे। अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्। आजघानोरसि क्रुद्धो जग्राह च बलाद् बली
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः। आजघान महातेजा वक्षसि द्विविदं ततः
स ततोऽभिहतस्तेन चचाल च महाबलः। उद्यतां च पुनस्तस्य जहार द्विविदो गदाम्
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत्। यूपाक्षं ताडयामास तलेनोरसि वीर्यवान्
तौ शोणिताक्षयूपाक्षौ प्लवंगाभ्यां तरस्विनौ। चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम्
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे। निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान्
यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुङ्गवः। पीडयामास बाहुभ्यां पपात स हतः क्षितौ
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा। जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम्। अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवंगमैः
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा। कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम्
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः। मुमोचाशीविषप्रख्याञ्छरान् देहविदारणान्
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्। विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा। तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्। निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः
मैन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे। अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम्
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः। बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः