प्रेषणं वायुपुत्रस्य भरतेन समागमम् रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-
अनागतं च यत् किंचिद् रामस्य वसुधातले तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-
रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-
ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-
मध्ये सभं समीपस्थाविदं काव्यमगायताम् । तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-
साधु साध्विति तावूचुः परं विस्मयमागताः । ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ । अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् । प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-
सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा । एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-
संरक्ततरमत्यर्थं मधुरं तावगायताम् । प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः । अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः । बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः । काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः । यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-
औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् । आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः । आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-
परं कवीनामाधारं समाप्तं च यथाक्रमम् । अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् । प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-