देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः। किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे
विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम्। समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम्
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्। वानरान् दश सप्तेति राक्षसा जघ्नुराहवे
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन्। विप्रलम्भितवस्त्रं च विमुक्तकवचध्वजम्। बलं राक्षसमालम्ब्य वानराः पर्यवारयन्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः
thumb|षट्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्सप्ततितमः सर्गः ॥६-
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये। अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः
आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः। गदया कम्पनः पूर्वं स चचाल भृशाहतः
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे। रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत्
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः। शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः
क्षुरक्षुरप्रनाराचैर्वत्सदन्तैः शिलीमुखैः। कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्। धनुरुग्रं रथं बाणान् ममर्द तरसा बली
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे। उत्पपात तदा क्रुद्धो वेगवानविचारयन्
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली। करेण तस्य तं खड्गं समाच्छिद्य ननाद च
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः। यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः। वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन्
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली। रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम्
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः। शोणिताक्षः समाश्वस्य तमेवानुपपात ह
प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली। गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम्
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः। विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च। तस्य तस्थतुरभ्याशे परस्परदिदृक्षया
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः। राक्षसा वानरान् रोषादसिबाणगदाधराः
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुंगवैः। संसक्तानां महद् युद्धमभवद् रोमहर्षणम्
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे। खड्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः
रथानश्वान् द्रुमाञ्छैलान् प्रतिचिक्षिपुराहवे। शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्। बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान्
उद्यम्य विपुलं खड्गं परमर्मविदारणम्। प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः। आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना। वालिपुत्रस्य घातेन स पपात क्षितावसिः