ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्। हेमजालाचितभुजं व्यावेष्टितपरश्वधम्
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्। गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम्
घोरं शूरजनाकीर्णं महाम्बुधरनिःस्वनम्। तद् दृष्ट्वा बलमायातं राक्षसानां दुरासदम्
संचचाल प्लवंगानां बलमुच्चैर्ननाद च। जवेनाप्लुत्य च पुनस्तद् बलं रक्षसां महत्
अभ्ययात् प्रत्यरिबलं पतंगा इव पावकम्। तेषां भुजपरामर्शव्यामृष्टपरिघाशनि
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत। तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान्। तथैवापततां तेषां हरीणां निशितैः शरैः
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमाः। दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः। शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः। प्रवरानभितो जघ्नुर्घोररूपा निशाचराः
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्। गर्हमाणं जगर्हान्यो दशन्तमपरोऽदशत्
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः। किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे
विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम्। समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम्
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्। वानरान् दश सप्तेति राक्षसा जघ्नुराहवे
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन्। विप्रलम्भितवस्त्रं च विमुक्तकवचध्वजम्। बलं राक्षसमालम्ब्य वानराः पर्यवारयन्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः
thumb|षट्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्सप्ततितमः सर्गः ॥६-
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये। अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः
आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः। गदया कम्पनः पूर्वं स चचाल भृशाहतः
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे। रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत्
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः। शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः
क्षुरक्षुरप्रनाराचैर्वत्सदन्तैः शिलीमुखैः। कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्। धनुरुग्रं रथं बाणान् ममर्द तरसा बली
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे। उत्पपात तदा क्रुद्धो वेगवानविचारयन्
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली। करेण तस्य तं खड्गं समाच्छिद्य ननाद च
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः। यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः। वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन्
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली। रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम्
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः। शोणिताक्षः समाश्वस्य तमेवानुपपात ह
प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली। गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम्