अश्वं मुक्तं गजो दृष्ट्वा क्वचिद् भीतोऽपसर्पति। भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते
लङ्कायां दह्यमानायां शुशुभे च महोदधिः। छायासंसक्तसलिलो लोहितोद इवार्णवः
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी। लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः। स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम्
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः। सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम्। दिशो दश समुद्रं च पृथिवीं च व्यनादयत्
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ। असम्भ्रान्तौ जगृहतुस्ते उभे धनुषी वरे
ततो विस्फारयामास रामश्च धनुरुत्तमम्। बभूव तुमुलः शब्दो राक्षसानां भयावहः
अशोभत तदा रामो धनुर्विस्फारयन् महत्। भगवानिव संक्रुद्धो भवो वेदमयं धनुः
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम्। ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे
वानरोद्घुष्टघोषश्च राक्षसानां च निःस्वनः। ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम्। कैलासशृङ्गप्रतिमं विकीर्णमभवद् भुवि
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च। संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत
तेषां संनह्यमानानां सिंहनादं च कुर्वताम्। शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना। आसन्नं द्वारमासाद्य युध्यध्वं च प्लवंगमाः
यश्च वो वितथं कुर्यात् तत्र तत्राप्युपस्थितः। स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु। स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत्
तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश। रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ। प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा। निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात्
शशास चैव तान् सर्वान् राक्षसान् स महाबलान्। राक्षसा गच्छताद्यैव सिंहनादं च नादयन्
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः। लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः। चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह
तत्र ताराधिपस्याभा ताराणां भा तथैव च। तयोराभरणाभा च ज्वलिता द्यामभासयत्
चन्द्राभा भूषणाभा च ग्रहाणां ज्वलतां च भा। हरिराक्षससैन्यानि भ्राजयामास सर्वतः
तत्र चार्धप्रदीप्तानां गृहाणां सागरः पुनः। भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम्
पताकाध्वजसंयुक्तमुत्तमासिपरश्वधम्। भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम्
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्। तद् राक्षसबलं भीमं घोरविक्रमपौरुषम्
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्। हेमजालाचितभुजं व्यावेष्टितपरश्वधम्
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्। गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम्