तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्। बभूवतुस्तत्र तदा विशल्या- वुत्तस्थुरन्ये च हरिप्रवीराः
यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः। तदाप्रभृति मानार्थमाज्ञया रावणस्य च
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः। हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवेगः। निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥६-
ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः। अर्थ्यं विज्ञापयंश्चापि हनूमन्तमिदं वचः
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः। नेदानीमुपनिर्हारं रावणो दातुमर्हति
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः। लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे। लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः। आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च। प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्
तेषां गृहसहस्राणि ददाह हुतभुक् तदा। प्रासादाः पर्वताकाराः पतन्ति धरणीतले
अगुरुर्दह्यते तत्र परं चैव सुचन्दनम्। मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम्। आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदम्। गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान्
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च। खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु। मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः
विविधानस्त्रसंघातानग्निर्दहति तत्र वै। नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम्। हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम्
सीधुपानचलाक्षाणां मदविह्वलगामिनाम्। कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्
गदाशूलासिहस्तानां खादतां पिबतामपि। शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः। तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्
अदहत् पावकस्तत्र जज्वाल च पुनः पुनः। सारवन्ति महार्हाणि गम्भीरगुणवन्ति च
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च। तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम्। क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः। ज्वलनेन परीतानि तोरणानि चकाशिरे
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे। ज्वलनेन परीतानि गृहाणि प्रचकाशिरे
दावाग्निदीप्तानि यथा शिखराणि महागिरेः। विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशुः। तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि
वज्रिवज्रहतानीव शिखराणि महागिरेः। तानि निर्दह्यमानानि दूरतः प्रचकाशिरे