स पर्वतान् पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि। स्फीताञ्जनांस्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः
आदित्यपथमाश्रित्य जगाम स गतश्रमः। हनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः
जवेन महता युक्तो मारुतिर्वातरंहसा। जगाम हरिशार्दूलो दिशः शब्देन नादयन्
स्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः। ददर्श सहसा चापि हिमवन्तं महाकपिः
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम्। श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः। शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम्
स तं समासाद्य महानगेन्द्र- मतिप्रवृद्धोत्तमहेमशृङ्गम्। ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्। हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिंकरांश्च
वह्न्यालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च। ब्रह्मालयं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः
कैलासमग्र्यं हिमवच्छिलां च तं वै वृषं काञ्चनशैलमग्र्यम्। प्रदीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम्
स तं समीक्ष्यानलराशिदीप्तं विसिस्मिये वासवदूतसूनुः। आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार
स योजनसहस्राणि समतीत्य महाकपिः। दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे। विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्
स ता महात्मा हनुमानपश्यं- श्चुकोप रोषाच्च भृशं ननाद। अमृष्यमाणोऽग्निसमानचक्षु- र्महीधरेन्द्रं तमुवाच वाक्यम्
किमेतदेवं सुविनिश्चितं ते यद् राघवे नासि कृतानुकम्पः। पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्। विकीर्णकूटं ज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्। संस्तूयमानः खचरैरनेकै- र्जगाम वेगाद् गरुडोग्रवेगः
स भास्कराध्वानमनुप्रपन्न- स्तं भास्कराभं शिखरं प्रगृह्य। बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु। सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन
तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद। तेषां समुत्कृष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः
ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये। हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्। बभूवतुस्तत्र तदा विशल्या- वुत्तस्थुरन्ये च हरिप्रवीराः
यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः। तदाप्रभृति मानार्थमाज्ञया रावणस्य च
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः। हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवेगः। निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥६-
ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः। अर्थ्यं विज्ञापयंश्चापि हनूमन्तमिदं वचः
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः। नेदानीमुपनिर्हारं रावणो दातुमर्हति
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः। लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे। लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः। आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः