चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः
चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः
गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः
रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः
अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः
गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः
ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-
विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः
महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः
पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम्
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः