धरते मारुतिस्तात मारुतप्रतिमो यदि। वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्
ततो वृद्धमुपागम्य विनयेनाभ्यवादयत्। गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः
श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः। पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्। आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा। त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन
ऋक्षवानरवीराणामनीकानि प्रहर्षय। विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ
गत्वा परममध्वानमुपर्युपरि सागरम्। हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्। कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्। सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम्
तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः। द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश
मृतसञ्जीवनीं चैव विशल्यकरणीमपि। सुवर्णकरणीं चैव संधानीं च महौषधीम्
ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि। आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज
श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः। आपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्। हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः
हरिपादविनिर्भग्नो निषसाद स पर्वतः। न शशाक तदात्मानं वोढुं भृशनिपीडितः
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः। शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता
तस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले। न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा। लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा
पृथिवीधरसंकाशो निपीड्य पृथिवीधरम्। पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्। मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम्
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्। सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम्
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्। नानामृगगणाकीर्णं बहुकन्दरशोभितम्
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्। हनूमान् मेघसंकाशो ववृधे मारुतात्मजः
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्। विवृत्योग्रं ननादोच्चैस्त्रासयन् रजनीचरान्
तस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम्। लङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित्
नमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः। राघवार्थे परं कर्म समीहत परंतपः
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुच्य। विवृत्य वक्त्रं वडवामुखाभ- मापुप्लुवे व्योम्नि स चण्डवेगः
स वृक्षखण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च। बाहूरुवेगोद्गतसम्प्रणुन्ना- स्ते क्षीणवेगाः सलिले निपेतुः
स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः। जगाम शैलं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः
स सागरं घूर्णितवीचिमालं तदम्भसा भ्रामितसर्वसत्त्वम्। समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम्