मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ। स्वयंभुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजितास्त्रजालैः
तस्मै तु दत्तं परमास्त्रमेतत् स्वयंभुवा ब्राह्मममोघवीर्यम्। तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः। विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत्
अस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम्। यो यो धारयते प्राणांस्तं तमाश्वासयावहे
तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ। उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः। स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः
पतितैः पर्वताकारैर्वानरैरभिसंवृताम्। शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च
मैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम्। विभीषणो हनूमांश्च ददृशाते हतान् रणे
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्। अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुवः
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्। मार्गते जाम्बवन्तं च हनूमान् सविभीषणः
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्। प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्
दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत्। कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः। कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत्
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये। विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा
अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत। हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित्
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः। आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम्
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे। आर्य संदर्शितः स्नेहो यथा वायुसुते परः
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्। शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम्
अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्। हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम्
धरते मारुतिस्तात मारुतप्रतिमो यदि। वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्
ततो वृद्धमुपागम्य विनयेनाभ्यवादयत्। गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः
श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः। पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्। आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा। त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन
ऋक्षवानरवीराणामनीकानि प्रहर्षय। विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ
गत्वा परममध्वानमुपर्युपरि सागरम्। हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्। कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्। सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम्
तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः। द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश