स बाणवर्षैरभिवृष्यमाणो धारानिपातानिव तानचिन्त्य। समीक्षमाणः परमाद्भुतश्री- रामस्तदा लक्ष्मणमित्युवाच
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः। निपातयित्वा हरिसैन्यमस्मान्- शितैः शरैरर्दयति प्रसक्तम्
स्वयंभुवा दत्तवरो महात्मा समाहितोऽन्तर्हितभीमकायः। कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः
मन्ये स्वयंभूर्भगवानचिन्त्य- स्तस्यैतदस्त्रं प्रभवश्च योऽस्य। बाणावपातं त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः। एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम्
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतहर्षरोषौ। ध्रुवं प्रवेक्ष्यत्यमरारिवास- मसौ समासाद्य रणाग्र्यलक्ष्मीम्
ततस्तदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन। विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम्। संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोऽभ्युवाच
thumb|चतुस्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः ॥६-
तयोस्तदासादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम्। सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित् प्रतिपेदिरे ते
ततो विषण्णं समवेक्ष्य सर्वं विभीषणो बुद्धिमतां वरिष्ठः। उवाच शाखामृगराजवीरा- नाश्वासयन्नप्रतिमैर्वचोभिः
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ। स्वयंभुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजितास्त्रजालैः
तस्मै तु दत्तं परमास्त्रमेतत् स्वयंभुवा ब्राह्मममोघवीर्यम्। तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः। विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत्
अस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम्। यो यो धारयते प्राणांस्तं तमाश्वासयावहे
तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ। उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः। स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः
पतितैः पर्वताकारैर्वानरैरभिसंवृताम्। शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च
मैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम्। विभीषणो हनूमांश्च ददृशाते हतान् रणे
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्। अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुवः
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्। मार्गते जाम्बवन्तं च हनूमान् सविभीषणः
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्। प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्
दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत्। कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः। कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत्
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये। विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा
अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत। हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित्
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः। आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम्
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे। आर्य संदर्शितः स्नेहो यथा वायुसुते परः
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्। शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम्
अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्। हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम्