सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः। पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च। सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत् तदा। अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः
अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः। स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः
वानराणामनीकानि निर्ममन्थ महारणे। आकुलां वानरीं सेनां शरजालेन पीडिताम्
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्। पुनरेव महातेजा राक्षसेन्द्रात्मजो बली
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्। ममर्द वानरानीकं परितस्त्विन्द्रजिद् बली
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महाहवे वानरवाहिनीषु। अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः। रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः
ते केवलं संददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु। मायाविगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमप्यपश्यन्
ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः। प्रच्छादयामास रविप्रकाशै- र्विदारयामास च वानरेन्द्रान्
स शूलनिस्त्रिंशपरश्वधानि व्याविद्धदीप्तानलसप्रभाणि। सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये
ततो ज्वलनसंकाशैर्बाणैर्वानरयूथपाः। ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्। राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः। शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले
हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च
मैन्दं च द्विविदं नीलं गवाक्षं गवयं तथा। केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम्
सूर्याननं ज्योतिर्मुखं तथा दधिमुखं हरिम्। पावकाक्षं नलं चैव कुमुदं चैव वानरम्
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः। विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयवर्णैः। ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः
स बाणवर्षैरभिवृष्यमाणो धारानिपातानिव तानचिन्त्य। समीक्षमाणः परमाद्भुतश्री- रामस्तदा लक्ष्मणमित्युवाच
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः। निपातयित्वा हरिसैन्यमस्मान्- शितैः शरैरर्दयति प्रसक्तम्
स्वयंभुवा दत्तवरो महात्मा समाहितोऽन्तर्हितभीमकायः। कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः
मन्ये स्वयंभूर्भगवानचिन्त्य- स्तस्यैतदस्त्रं प्रभवश्च योऽस्य। बाणावपातं त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः। एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम्
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतहर्षरोषौ। ध्रुवं प्रवेक्ष्यत्यमरारिवास- मसौ समासाद्य रणाग्र्यलक्ष्मीम्
ततस्तदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन। विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम्। संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोऽभ्युवाच
thumb|चतुस्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः ॥६-
तयोस्तदासादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम्। सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित् प्रतिपेदिरे ते
ततो विषण्णं समवेक्ष्य सर्वं विभीषणो बुद्धिमतां वरिष्ठः। उवाच शाखामृगराजवीरा- नाश्वासयन्नप्रतिमैर्वचोभिः