हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः। सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्। तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके। सार्कग्रहेन्दुनक्षत्रं वितत्रास नभस्थलम्
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः। सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः
ततो हयरथाकीर्णं पताकाध्वजशोभितम्। निर्ययौ राक्षसबलं नर्दमानं युयुत्सया
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः। तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे
रावणिस्तु सुसंक्रुद्धस्तान् निरीक्ष्य निशाचरान्। हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया
ततस्ते राक्षसाः सर्वे गर्जन्तो जयकांक्षिणः। अभ्यवर्षंस्ततो घोरं वानरान् शरवृष्टिभिः
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि। रक्षोभिः संवृतः संख्ये वानरान् विचकर्ष ह
ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यवर्षन्त सहसा रावणिं शैलपादपैः
इन्द्रजित् तु तदा क्रुद्धो महातेजा महाबलः। वानराणां शरीराणि व्यधमद् रावणात्मजः
शरेणैकेन च हरीन् नव पञ्च च सप्त च। बिभेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन्
स शरैः सूर्यसंकाशैः शातकुम्भविभूषणैः। वानरान् समरे वीरः प्रममाथ सुदुर्जयः
ते भिन्नगात्राः समरे वानराः शरपीडिताः। पेतुर्मथितसंकल्पाः सुरैरिव महासुराः
ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः। अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः। व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः। नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः। अभ्यवर्षन्त समरे रावणिं समवस्थिताः
तं द्रुमाणां शिलानां च वर्षं प्राणहरं महत्। व्यपोहत महातेजा रावणिः समितिंजयः
ततः पावकसंकाशैः शरैराशीविषोपमैः। वानराणामनीकानि बिभेद समरे प्रभुः
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्। विव्याध नवभिश्चैव नलं दूरादवस्थितम्
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः। पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च। सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत् तदा। अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः
अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः। स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः
वानराणामनीकानि निर्ममन्थ महारणे। आकुलां वानरीं सेनां शरजालेन पीडिताम्
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्। पुनरेव महातेजा राक्षसेन्द्रात्मजो बली
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्। ममर्द वानरानीकं परितस्त्विन्द्रजिद् बली
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महाहवे वानरवाहिनीषु। अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः। रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः
ते केवलं संददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु। मायाविगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमप्यपश्यन्