स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्। राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत्
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः। किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम्
तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः। ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता। स सम्प्राप्य महातेजा युद्धभूमिमरिंदमः
स्थापयामास रक्षांसि रथं प्रति समन्ततः। ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः
जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः। स हविर्लाजसत्कारैर्माल्यगन्धपुरस्कृतैः
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्। शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा। स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः। सकृदेव समिद्धस्य विधूमस्य महार्चिषः
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्। प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः। सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्। तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके। सार्कग्रहेन्दुनक्षत्रं वितत्रास नभस्थलम्
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः। सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः
ततो हयरथाकीर्णं पताकाध्वजशोभितम्। निर्ययौ राक्षसबलं नर्दमानं युयुत्सया
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः। तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे
रावणिस्तु सुसंक्रुद्धस्तान् निरीक्ष्य निशाचरान्। हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया
ततस्ते राक्षसाः सर्वे गर्जन्तो जयकांक्षिणः। अभ्यवर्षंस्ततो घोरं वानरान् शरवृष्टिभिः
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि। रक्षोभिः संवृतः संख्ये वानरान् विचकर्ष ह
ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यवर्षन्त सहसा रावणिं शैलपादपैः
इन्द्रजित् तु तदा क्रुद्धो महातेजा महाबलः। वानराणां शरीराणि व्यधमद् रावणात्मजः
शरेणैकेन च हरीन् नव पञ्च च सप्त च। बिभेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन्
स शरैः सूर्यसंकाशैः शातकुम्भविभूषणैः। वानरान् समरे वीरः प्रममाथ सुदुर्जयः
ते भिन्नगात्राः समरे वानराः शरपीडिताः। पेतुर्मथितसंकल्पाः सुरैरिव महासुराः
ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः। अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः। व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः। नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः। अभ्यवर्षन्त समरे रावणिं समवस्थिताः
तं द्रुमाणां शिलानां च वर्षं प्राणहरं महत्। व्यपोहत महातेजा रावणिः समितिंजयः
ततः पावकसंकाशैः शरैराशीविषोपमैः। वानराणामनीकानि बिभेद समरे प्रभुः
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्। विव्याध नवभिश्चैव नलं दूरादवस्थितम्