ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्। वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः
तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम्
ततः स संदीपितकोपवह्नि- र्निशाचराणामधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा विनिःश्वसन्
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान्। रक्षोगणास्तत्र हतावशिष्टा- स्ते रावणाय त्वरिताः शशंसुः
ततो हतांस्तान् सहसा निशम्य राजा महाबाष्पपरिप्लुताक्षः। पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्। रथर्षभो राक्षसराजसूनु- स्तमिन्द्रजिद् वाक्यमिदं बभाषे
न तात मोहं परिगन्तुमर्हसे यत्रेन्द्रजिज्जीवति नैर्ऋतेश। नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभिपातुम्
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्। गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम्
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्। अद्यैव रामं सह लक्ष्मणेन संतर्पयिष्यामि शरैरमोघैः
अद्येन्द्रवैवस्वतविष्णुरुद्र- साध्याश्च वैश्वानरचन्द्रसूर्याः। द्रक्ष्यन्ति मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे
स एवमुक्त्वा त्रिदशेन्द्रशत्रु- रापृच्छ्य राजानमदीनसत्त्वः। समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम्
समास्थाय महातेजा रथं हरिरथोपमम्। जगाम सहसा तत्र यत्र युद्धमरिंदमः
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः। संहर्षमाणा बहवो धनुःप्रवरपाणयः
गजस्कन्धगताः केचित् केचित् परमवाजिभिः। व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजङ्गमैः
वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः। काकहंसमयूरैश्च राक्षसा भीमविक्रमाः
प्रासपट्टिशनिस्त्रिंशपरश्वधगदाधराः। भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधाः
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः। जगाम त्रिदशेन्द्रारिराजिं वेगेन वीर्यवान्
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः। रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा
वीज्यमानस्ततो वीरो हैमैर्हेमविभूषणः। चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्। राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत्
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः। किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम्
तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः। ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता। स सम्प्राप्य महातेजा युद्धभूमिमरिंदमः
स्थापयामास रक्षांसि रथं प्रति समन्ततः। ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः
जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः। स हविर्लाजसत्कारैर्माल्यगन्धपुरस्कृतैः
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्। शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा। स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः। सकृदेव समिद्धस्य विधूमस्य महार्चिषः
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्। प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः