तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम्। जघान शक्त्यृष्टिगदाकुठारैः शूलैः शरैश्चाप्यविपन्नचेष्टः
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः। प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम्। पपात सहसा भूमौ शृङ्गं हिमवतो यथा
तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम्। बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः। विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः
ततस्तत्परितं याता निरपेक्षा निशाचराः। पुरीमभिमुखा भीता द्रवन्तो नायके हते
प्रहर्षयुक्ता बहवस्तु वानराः प्रफुल्लपद्मप्रतिमाननास्तदा। अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः। त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विसप्ततितमः सर्गः ॥६-
अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना। उद्वेगमगमद् राजा वचनं चेदमब्रवीत्
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः। अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः। जेतारः परसैन्यानां परैर्नित्यापराजिताः
ससैन्यास्ते हता वीरा रामेणाक्लिष्टकर्मणा। राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः
अन्ये च बहवः शूरा महात्मानो निपातिताः। प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः। यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वपन्नगैः। तन्न जाने प्रभावैर्वा मायया मोहनेन वा
शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ। ये योधा निर्गताः शूरा राक्षसा मम शासनात्
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः। तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्
नाशयेत् सबलं वीरं ससुग्रीवं विभीषणम्। अहो सुबलवान् रामो महदस्त्रबलं च वै
यस्य विक्रममासाद्य राक्षसा निधनं गताः। तं मन्ये राघवं वीरं नारायणमनामयम्
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्तैश्च सर्वत्र गुल्मे रक्ष्या पुरी त्वियम्
अशोकवनिका चैव यत्र सीताभिरक्ष्यते। निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः
यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः। सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन। द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्। वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः
तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम्
ततः स संदीपितकोपवह्नि- र्निशाचराणामधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा विनिःश्वसन्
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान्। रक्षोगणास्तत्र हतावशिष्टा- स्ते रावणाय त्वरिताः शशंसुः