ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः। समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य
तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे। दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी
तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सपुङ्खं यमदूतकल्पम्। सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम्
तं लक्ष्मणोत्सृष्टविवृद्धवेगं समापतन्तं श्वसनोग्रवेगम्। सुपर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः। स सायकस्तस्य सुपर्णवेग- स्तथातिवेगेन जगाम पार्श्वम्
तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम्। जघान शक्त्यृष्टिगदाकुठारैः शूलैः शरैश्चाप्यविपन्नचेष्टः
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः। प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम्। पपात सहसा भूमौ शृङ्गं हिमवतो यथा
तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम्। बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः। विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः
ततस्तत्परितं याता निरपेक्षा निशाचराः। पुरीमभिमुखा भीता द्रवन्तो नायके हते
प्रहर्षयुक्ता बहवस्तु वानराः प्रफुल्लपद्मप्रतिमाननास्तदा। अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः। त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विसप्ततितमः सर्गः ॥६-
अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना। उद्वेगमगमद् राजा वचनं चेदमब्रवीत्
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः। अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः। जेतारः परसैन्यानां परैर्नित्यापराजिताः
ससैन्यास्ते हता वीरा रामेणाक्लिष्टकर्मणा। राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः
अन्ये च बहवः शूरा महात्मानो निपातिताः। प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः। यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वपन्नगैः। तन्न जाने प्रभावैर्वा मायया मोहनेन वा
शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ। ये योधा निर्गताः शूरा राक्षसा मम शासनात्
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः। तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्
नाशयेत् सबलं वीरं ससुग्रीवं विभीषणम्। अहो सुबलवान् रामो महदस्त्रबलं च वै
यस्य विक्रममासाद्य राक्षसा निधनं गताः। तं मन्ये राघवं वीरं नारायणमनामयम्
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्तैश्च सर्वत्र गुल्मे रक्ष्या पुरी त्वियम्
अशोकवनिका चैव यत्र सीताभिरक्ष्यते। निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः
यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः। सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन। द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा