राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः। रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम्
चिन्तयामास चाश्वास्य विमृश्य च महाबलः। साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः
विधायैवं विदार्यास्यं नियम्य च महाभुजौ। स रथोपस्थमास्थाय रथेन प्रचचार ह
एवं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः। आददे संदधे चापि विचकर्षोत्ससर्ज च
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः। हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्
ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः। असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः
तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः। चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्
स संधाय महातेजास्तं बाणं सहसोत्सृजत्। तेन सौमित्रिमायान्तमाजघान स्तनान्तरे
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि। सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः
स चकार तदात्मानं विशल्यं सहसा विभुः। जग्राह च शरं तीक्ष्णमस्त्रेणापि समाददे
आग्नेयेन तदास्त्रेण योजयामास सायकम्। स जज्वाल तदा बाणो धनुष्यस्य महात्मनः
अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे। तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत्
तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम्। अतिकायाय चिक्षेप कालदण्डमिवान्तकः
आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः। उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम्
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः। तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ
तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ। तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले
ततोऽतिकायः संक्रुद्धस्त्वाष्ट्रमैषीकमुत्सृजत्। ततश्चिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान्
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः। याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम्
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः। वायव्येन तदस्त्रेण निजघान स लक्ष्मणः
अथैनं शरधाराभिर्धाराभिरिव तोयदः। अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्
तेऽतिकायं समासाद्य कवचे वज्रभूषिते। भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले
तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा। अभ्यवर्षत बाणानां सहस्रेण महायशाः
स वृष्यमाणो बाणौघैरतिकायो महाबलः। अवध्यकवचः संख्ये राक्षसो नैव विव्यथे
शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत्। स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह
मुहूर्तमात्रं निःसंज्ञो ह्यभवच्छत्रुतापनः। ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः
निजघान हयान् संख्ये सारथिं च महाबलः। ध्वजस्योन्मथनं कृत्वा शरवर्षैररिंदमः
असम्भ्रान्तः स सौमित्रिस्तान् शरानभिलक्षितान्। मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः। अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह
ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः। ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा। अवध्य एष ह्यन्येषामस्त्राणां कवची बली