सुखप्रसुप्तं कालाग्निं विबोधयितुमिच्छसि। न्यस्य चापं निवर्तस्व प्राणान्न जहि मद्गतः
अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि। तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम्
पश्य मे निशितान् बाणान् रिपुदर्पनिषूदनान्। ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्
एष ते सर्पसंकाशो बाणः पास्यति शोणितम्। मृगराज इव क्रुद्धो नागराजस्य शोणितम्। इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः। स संचुकोपातिबलो मनस्वी उवाच वाक्यं च ततो महार्थम्
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति। मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन्
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि। पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः। शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः। मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः। पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम्
बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि। बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः। लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत्। अतिकायः प्रचुक्रोध बाणं चोत्तममाददे
ततो विद्याधरा भूता देवा दैत्या महर्षयः। गुह्यकाश्च महात्मानस्तद् युद्धं द्रष्टुमागमन्
ततोऽतिकायः कुपितश्चापमारोप्य सायकम्। लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम्
तमापतन्तं निशितं शरमाशीविषोपमम्। अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्। अतिकायो भृशं क्रुद्धः पञ्च बाणान् समादधे
तान् शरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः। तानप्राप्तान् शितैर्बाणैश्चिच्छेद भरतानुजः
स तान् छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा। आददे निशितं बाणं ज्वलन्तमिव तेजसा
पूर्णायतविसृष्टेन शरेण नतपर्वणा। ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान्
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः। ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले
राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः। रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम्
चिन्तयामास चाश्वास्य विमृश्य च महाबलः। साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः
विधायैवं विदार्यास्यं नियम्य च महाभुजौ। स रथोपस्थमास्थाय रथेन प्रचचार ह
एवं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः। आददे संदधे चापि विचकर्षोत्ससर्ज च
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः। हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्
ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः। असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः
तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः। चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्
स संधाय महातेजास्तं बाणं सहसोत्सृजत्। तेन सौमित्रिमायान्तमाजघान स्तनान्तरे
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि। सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः
स चकार तदात्मानं विशल्यं सहसा विभुः। जग्राह च शरं तीक्ष्णमस्त्रेणापि समाददे