यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः
वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम्
सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः
दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः
स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः
यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः
चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः
गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः