एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमता। पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा
एषोऽतिकायो बलवान् राक्षसानामथर्षभः। स रावणसुतो धीमान् देवदानवदर्पहा
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव। पुरा वानरसैन्यानि क्षयं नयति सायकैः
ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्। विस्फारयामास धनुर्ननाद च पुनः पुनः
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतुर्महात्मानः प्रधाना ये वनौकसः
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च। पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन्
तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः। अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली। विव्याधाभिमुखान् संख्ये भीमकायो निशाचरः
तेऽर्दिता बाणवर्षेण भिन्नगात्राः पराजिताः। न शेकुरतिकायस्य प्रतिकर्तुं महाहवे
तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः। मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः
स राक्षसेन्द्रो हरियूथमध्ये नायुध्यमानं निजघान कंचित्। उत्पत्य रामं स धनुःकलापी सगर्वितं वाक्यमिदं बभाषे
रथे स्थितोऽहं शरचापपाणि- र्न प्राकृतं कंचन योधयामि। यस्यास्ति शक्तिर्व्यवसाययुक्तो ददातु मे शीघ्रमिहाद्य युद्धम्
तत् तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता। अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्। पुरस्तादतिकायस्य विचकर्ष महद्धनुः
पूरयन् स महीं सर्वामाकाशं सागरं दिशः। ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान्
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा। विसिस्मिये महातेजा राक्षसेन्द्रात्मजो बली
तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्। आदाय निशितं बाणमिदं वचनमब्रवीत्
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः। गच्छ किं कालसंकाशं मां योधयितुमिच्छसि
नहि मद्बाहुसृष्टानां बाणानां हिमवानपि। सोढुमुत्सहते वेगमन्तरिक्षमथो मही
सुखप्रसुप्तं कालाग्निं विबोधयितुमिच्छसि। न्यस्य चापं निवर्तस्व प्राणान्न जहि मद्गतः
अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि। तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम्
पश्य मे निशितान् बाणान् रिपुदर्पनिषूदनान्। ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्
एष ते सर्पसंकाशो बाणः पास्यति शोणितम्। मृगराज इव क्रुद्धो नागराजस्य शोणितम्। इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः। स संचुकोपातिबलो मनस्वी उवाच वाक्यं च ततो महार्थम्
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति। मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन्
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि। पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः। शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः। मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः। पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम्