य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः। अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते। आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः
धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः। शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम्
य एष रक्षःशार्दूलो रणभूमिं विराजयन्। अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्चसा
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते। सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्
त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्। शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते
सध्वजः सपताकश्च सानुकर्षो महारथः। चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः
विंशतिर्दश चाष्टौ च तूणास्य रथमास्थिताः। कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः
द्वौ च खड्गौ च पार्श्वस्थौ प्रदीप्तौ पार्श्वशोभितौ। चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः। कालः कालमहावक्त्रो मेघस्थ इव भास्करः
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते। शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः
कुण्डलाभ्यामुभाभ्यां च भाति वक्त्रं सुभीषणम्। पुनर्वस्वन्तरगतं परिपूर्णो निशाकरः
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्। यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः
स पृष्टो राजपुत्रेण रामेणामिततेजसा। आचचक्षे महातेजा राघवाय विभीषणः
दशग्रीवो महातेजा राजा वैश्रवणानुजः। भीमकर्मा महात्मा हि रावणो राक्षसेश्वरः
तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो बले। वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः
अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे। भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया। तनयं धान्यमालिन्या अतिकायमिमं विदुः
एतेनाराधितो ब्रह्मा तपसा भावितात्मना। अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा। एतच्च कवचं दिव्यं रथश्च रविभास्वरः
एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमता। पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा
एषोऽतिकायो बलवान् राक्षसानामथर्षभः। स रावणसुतो धीमान् देवदानवदर्पहा
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव। पुरा वानरसैन्यानि क्षयं नयति सायकैः
ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्। विस्फारयामास धनुर्ननाद च पुनः पुनः
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतुर्महात्मानः प्रधाना ये वनौकसः
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च। पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन्
तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः। अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली। विव्याधाभिमुखान् संख्ये भीमकायो निशाचरः
तेऽर्दिता बाणवर्षेण भिन्नगात्राः पराजिताः। न शेकुरतिकायस्य प्रतिकर्तुं महाहवे