मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः। उत्पत्य संध्याभ्रसमानवर्ण- स्तं वारिराजात्मजमाजघान
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः। तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्ये
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः। बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः
अभिदुद्राव वेगेन गदां तस्य महात्मनः। तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः
मत्तानीकं महात्मा स जघान रणमूर्धनि। स स्वया गदया भग्नो विशीर्णदशनेक्षणः
निपपात तदा मत्तो वज्राहत इवाचलः। विशीर्णनयने भूमौ गतसत्त्वे गतायुषि। पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्। त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम्
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकसप्ततितमः सर्गः ॥६-
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्। भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान्
पितृव्यौ चापि संदृश्य समरे संनिपातितौ। युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसोत्तमौ
चुकोप च महातेजा ब्रह्मदत्तवरो युधि। अतिकायोऽद्रिसंकाशो देवदानवदर्पहा
स भास्करसहस्रस्य संघातमिव भास्वरम्। रथमारुह्य शक्रारिरभिदुद्राव वानरान्
स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः। नाम संश्रावयामास ननाद च महास्वनम्
तेन सिंहप्रणादेन नामविश्रावणेन च। ज्याशब्देन च भीमेन त्रासयामास वानरान्
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः। भयार्ता वानराः सर्वे संश्रयन्ते परस्परम्
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे। भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः
तेऽतिकायं समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्। ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत्
स तं दृष्ट्वा महाकायं राघवस्तु सुविस्मितः। वानरान् सान्त्वयित्वा च विभीषणमुवाच ह
कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः। युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः। अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते। आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः
धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः। शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम्
य एष रक्षःशार्दूलो रणभूमिं विराजयन्। अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्चसा
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते। सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्
त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्। शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते
सध्वजः सपताकश्च सानुकर्षो महारथः। चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः
विंशतिर्दश चाष्टौ च तूणास्य रथमास्थिताः। कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः
द्वौ च खड्गौ च पार्श्वस्थौ प्रदीप्तौ पार्श्वशोभितौ। चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः। कालः कालमहावक्त्रो मेघस्थ इव भास्करः