चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः। जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्। विराजमानां विपुलां शत्रुशोणिततर्पिताम्
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम्। ऐरावतमहापद्मसार्वभौमभयावहाम्
गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः। हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन्
अथर्षभः समुत्पत्य वानरो रावणानुजम्। मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्। आजघानोरसि क्रुद्धो गदया वज्रकल्पया
स तयाभिहतस्तेन गदया वानरर्षभः। भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु
स सम्प्राप्य चिरात् संज्ञामृषभो वानरेश्वरः। क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत
स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः। संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः
स कृत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः। तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद
मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः। उत्पत्य संध्याभ्रसमानवर्ण- स्तं वारिराजात्मजमाजघान
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः। तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्ये
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः। बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः
अभिदुद्राव वेगेन गदां तस्य महात्मनः। तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः
मत्तानीकं महात्मा स जघान रणमूर्धनि। स स्वया गदया भग्नो विशीर्णदशनेक्षणः
निपपात तदा मत्तो वज्राहत इवाचलः। विशीर्णनयने भूमौ गतसत्त्वे गतायुषि। पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्। त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम्
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकसप्ततितमः सर्गः ॥६-
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्। भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान्
पितृव्यौ चापि संदृश्य समरे संनिपातितौ। युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसोत्तमौ
चुकोप च महातेजा ब्रह्मदत्तवरो युधि। अतिकायोऽद्रिसंकाशो देवदानवदर्पहा
स भास्करसहस्रस्य संघातमिव भास्वरम्। रथमारुह्य शक्रारिरभिदुद्राव वानरान्
स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः। नाम संश्रावयामास ननाद च महास्वनम्
तेन सिंहप्रणादेन नामविश्रावणेन च। ज्याशब्देन च भीमेन त्रासयामास वानरान्
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः। भयार्ता वानराः सर्वे संश्रयन्ते परस्परम्
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे। भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः
तेऽतिकायं समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्। ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत्
स तं दृष्ट्वा महाकायं राघवस्तु सुविस्मितः। वानरान् सान्त्वयित्वा च विभीषणमुवाच ह
कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः। युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः