ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा। तद् रावणसुतो धीमान् बिभेद निशितैः शरैः
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्। सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली। परिघेणाभिदुद्राव मारुतात्मजमाहवे
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः। आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना
शिरसि प्राहरद् वीरस्तदा वायुसुतो बली। नादेनाकम्पयच्चैव राक्षसान् स महाकपिः
स मुष्टिनिष्पिष्टविभिन्नमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः। देवान्तको राक्षसराजसूनु- र्गतासुरुर्व्यां सहसा पपात
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ। क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्। भूयः समधिरुह्याशु मन्दरं रश्मिवानिव
ततो बाणमयं वर्षं नीलस्योपर्यपातयत्। गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः
ततः शरौघैरभिवृष्यमाणो विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन
ततस्तु नीलः प्रतिलब्धसंज्ञः शैलं समुत्पाट्य सवृक्षखण्डम्। ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महाद्विपेन। व्यामोहितो भूमितले गतासुः पपात वज्राभिहतो यथाद्रिः
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे। हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः। त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली
तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः। विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान्। त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च
हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा। विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः। चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्। गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता। प्रहृष्टा वानरगणा विनेदुर्जलदा यथा
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः। निचखान तदा खड्गं वानरेन्द्रस्य वक्षसि
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः। आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि। निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः
स तस्य पततः खड्गं तमाच्छिद्य महाकपिः। ननाद गिरिसंकाशस्त्रासयन् सर्वराक्षसान्
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः। उत्पत्य च हनूमन्तं ताडयामास मुष्टिना
तेन मुष्टिप्रहारेण संचुकोप महाकपिः। कुपितश्च निजग्राह किरीटे राक्षसर्षभम्
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि। क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि। पेतुः शिरांसीन्द्ररिपोः पृथिव्यां ज्योतींषि मुक्तानि यथार्कमार्गात्
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण। नेदुः प्लवंगाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात्
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्। हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ