देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्। उपगम्याभिहत्याशु व्यपचक्राम वेगवान्
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान्
स वेगवान् महावेगं कृत्वा परमदुर्जयः। तलेन समभिद्रुत्य जघानास्य महागजम्
तस्य तेन प्रहारेण नागराजस्य संयुगे। पेततुर्नयने तस्य विननाश स कुञ्जरः
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः। देवान्तकमभिद्रुत्य ताडयामास संयुगे
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः। लाक्षारससवर्णं च सुस्राव रुधिरं महत्
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली। आविध्य परिघं वेगादाजघान तदाङ्गदम्
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा। जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः। घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः। हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा। तद् रावणसुतो धीमान् बिभेद निशितैः शरैः
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्। सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली। परिघेणाभिदुद्राव मारुतात्मजमाहवे
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः। आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना
शिरसि प्राहरद् वीरस्तदा वायुसुतो बली। नादेनाकम्पयच्चैव राक्षसान् स महाकपिः
स मुष्टिनिष्पिष्टविभिन्नमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः। देवान्तको राक्षसराजसूनु- र्गतासुरुर्व्यां सहसा पपात
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ। क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्। भूयः समधिरुह्याशु मन्दरं रश्मिवानिव
ततो बाणमयं वर्षं नीलस्योपर्यपातयत्। गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः
ततः शरौघैरभिवृष्यमाणो विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन
ततस्तु नीलः प्रतिलब्धसंज्ञः शैलं समुत्पाट्य सवृक्षखण्डम्। ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महाद्विपेन। व्यामोहितो भूमितले गतासुः पपात वज्राभिहतो यथाद्रिः
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे। हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः। त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली
तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः। विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान्। त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च
हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा। विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः। चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्। गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता। प्रहृष्टा वानरगणा विनेदुर्जलदा यथा