नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः। देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः। वालिपुत्रं महावीर्यमभिदुद्राव वेगवान्
भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली। आदाय परिघं घोरमङ्गदं समभिद्रवत्
रथमादित्यसंकाशं युक्तं परमवाजिभिः। आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात्
स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः। वृक्षमुत्पाटयामास महाविटपमङ्गदः
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः। महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम्
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः। स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः
स ववर्ष ततो वृक्षान् शिलाश्च कपिकुञ्जरः। तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः
परिघाग्रेण तान् वृक्षान् बभञ्ज स महोदरः। त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः
गजेन समभिद्रुत्य वालिपुत्रं महोदरः। जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः
देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्। उपगम्याभिहत्याशु व्यपचक्राम वेगवान्
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान्
स वेगवान् महावेगं कृत्वा परमदुर्जयः। तलेन समभिद्रुत्य जघानास्य महागजम्
तस्य तेन प्रहारेण नागराजस्य संयुगे। पेततुर्नयने तस्य विननाश स कुञ्जरः
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः। देवान्तकमभिद्रुत्य ताडयामास संयुगे
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः। लाक्षारससवर्णं च सुस्राव रुधिरं महत्
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली। आविध्य परिघं वेगादाजघान तदाङ्गदम्
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा। जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः। घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः। हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा। तद् रावणसुतो धीमान् बिभेद निशितैः शरैः
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्। सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली। परिघेणाभिदुद्राव मारुतात्मजमाहवे
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः। आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना
शिरसि प्राहरद् वीरस्तदा वायुसुतो बली। नादेनाकम्पयच्चैव राक्षसान् स महाकपिः
स मुष्टिनिष्पिष्टविभिन्नमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः। देवान्तको राक्षसराजसूनु- र्गतासुरुर्व्यां सहसा पपात
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ। क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्। भूयः समधिरुह्याशु मन्दरं रश्मिवानिव
ततो बाणमयं वर्षं नीलस्योपर्यपातयत्। गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः
ततः शरौघैरभिवृष्यमाणो विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन