स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद। एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम्
ददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम्। चरन्तं हरिसैन्येषु विद्याधरमहर्षयः
यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। तावदेतानतिक्रम्य निर्बिभेद नरान्तकः
ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः। ददाह हरिसैन्यानि वनानीव विभावसुः
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः। तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः
दिक्षु सर्वासु बलवान् विचचार नरान्तकः। प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्। उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्
एकेनान्तककल्पेन प्रासेनादित्यतेजसा। भग्नानि हरिसैन्यानि निपेतुर्धरणीतले
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्। न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्
पततां हरिवीराणां रूपाणि प्रचकाशिरे। वज्रभिन्नाग्रकूटानां शैलानां पततामिव
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः। ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे
प्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम्। नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्। गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम्
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः। कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्
गच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितः। क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा। अनीकान्मेघसंकाशादंशुमानिव वीर्यवान्
शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः। रराजाङ्गदसंनद्धः सधातुरिव पर्वतः
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्। नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि। अस्मिन् वज्रसमस्पर्शं प्रासं क्षिप्र ममोरसि
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः। संदश्य दशनैरोष्ठं निःश्वस्य च भुजंगवत्। अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः
स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज। स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्। तलं समुद्यम्य स वालिपुत्र- स्तुरंगमस्याभिजघान मूर्ध्नि
निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः। स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा
नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य। स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम्
अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्। मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिस्मिये च
अथाङ्गदो मृत्युसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्। निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः
स मुष्टिनिर्भिन्ननिमग्नवक्षा ज्वाला वमन् शोणितदिग्धगात्रः। नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः
तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः। बभूव तस्मिन् निहतेऽग्र्यवीर्ये नरान्तके वालिसुतेन संख्ये
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम्। विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः
thumb|सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्ततितमः सर्गः ॥६-